Monday 8 April 2019

जयतु भारतम्  (नौका गानम् )

भारताम्बे जगन्माते,  मातुर्माते वन्दनं ते, 
भजामहे वीराः वयं तव सन्निधौ
सुदीर्घाः सीमानः पालयितुं सज्जा वयं
कटी बद्धो भूत्वा सदा तिष्ठामः खलु
देवतात्मा हिमालयो उत्तरेषु विराजन्ते
भूमि माते तव मणिमकुटमिव
दक्षिणेषु भारताब्धि विराजते भवत्पादौ
कनक -नूपुरमिव नादमुदीर्य
आरबवंग सागरौ उभयतो वर्तेते च
चामरादि वीचनेन धन्यतां विन्दौ
देव किन्नरादयः यक्षगन्धर्वादयः
अष्टदिक्षु मोदमोदं पालयन्ति ते।
आङ्गलेय तस्कराः यवनभीकराः च
धर्मयुद्धे पराजिताः पलायिताः
भरतवंशजो वयं संस्कृतचित्ताः वयं
भरताभिमानिनः उन्नतशीर्षाः ॥

- अय्यम्पुपुष़ हरिकुमारः
--------------------------------------